मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १४

संहिता

उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः ।
अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ॥

पदपाठः

उप॑ । ब्र॒ध्नम् । व॒वाता॑ । वृष॑णा । हरी॒ इति॑ । इन्द्र॑म् । अ॒पऽसु॑ । व॒क्ष॒तः॒ ।
अ॒र्वाञ्च॑म् । त्वा॒ । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ना । इत् । उप॑ ॥

सायणभाष्यम्

ब्रध्नमन्तरिक्षं वावाता संभक्तवन्तौ वनतेर्निष्ठायां छान्दसं द्विर्वचनं इडभावः आत्वं धातुस्वरश्च अन्येषामपिदृश्यतइति सांहितिकोभ्या- सदीर्घः । यद्वा वावाता पुनःपुनर्गच्छन्तौ वा गतिगगन्धनयोः अस्माद्यङ्लुगन्तात्कर्तरिनिष्ठा । वृषण वृंषणौ सेक्तारौ हरी हरणशीलावश्वौ उक्तगुणौ सन्तौ अपसु अस्मदीयेषु कर्मसु अपसशब्दः सकारान्तः कर्मवचनः पीवोपवत्तनानां छन्दसि लोपोवक्तव्यइती- हसकारोलुप्यते । तत्रेममिन्द्रं उपवक्षतः उपवहतां उपानयताम् वहतेर्लेट्यडागमः सिब्बहुलमिति सिप् । अपिच अध्वरश्रियोध्वरं सेवमानाः सप्तयः सर्पणशीलाः अन्येपि त्वदीयाअश्वाः सवना सवनानि प्रातःसवनादीन्यस्मद्यागसम्बन्धीनि प्रति हे इन्द्र त्वां अर्वाञ्चं अभिमुखं उपवहन्तु उपगमयन्तु इदिति पूरकः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२