मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् २०

संहिता

धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे॑धैर॒भिद्यु॑भिः ।
ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषि॑ः ॥

पदपाठः

धी॒भिः । सा॒तानि॑ । का॒ण्वस्य॑ । वा॒जिनः॑ । प्रि॒यऽमे॑धैः । अ॒भिद्यु॑ऽभिः ।
ष॒ष्टिम् । स॒हस्रा॑ । अनु॑ । निःऽम॑जाम् । अ॒जे॒ । निः । यू॒थानि॑ । गवा॑म् । ऋषिः॑ ॥

सायणभाष्यम्

काण्वस्य कण्वपुत्रस्य वाजिनो हविष्मतो मेधातिथेः संबन्धिभिः धीभिः ध्यातृभिः स्तोतृभिः सातानि संभक्तानि अभिद्युभिरभिगतदी- प्तिभिः प्रियमेधैः एतत्संज्ञैश्च ऋषिभिः सेवितानि निर्मजां निःशेषेण शुद्धानां गवां षष्टिं सहस्रा षष्टिसंख्याकानि सहस्राणि यूथानि ऋषिर्देवातिथिरहं अनु पश्चात् निरजे निःशेषेणागच्छं साकल्येन प्राप्तवानस्मि अजगतिक्षेपणयोः यथा प्रियमेधानां कण्वानां च गवां यूथानि राज्ञा दत्तानि तैः प्रतिगृहीतानि एवं तेन दत्तानि मया प्रतिगृह्यन्तइत्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३