मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् १४

संहिता

अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।
मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥

पदपाठः

अ॒स्य । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मद॑स्य । चारु॑णः ।
मध्वः॑ । रा॒तस्य॑ । धि॒ष्ण्या॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ हे धिष्ण्या धिषणा स्तुतिः तदर्हौ युवं युवां मदस्य मदकरस्य चारुणः शोभनस्य रातस्यास्माभिर्दत्तस्य अस्य मध्वो- मधुरस्य सोमस्य स्वांशलक्षणं भागं पिबतम् । यद्वा द्वितीयार्थेषष्ठी इमं सोमं पिबतम् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः