मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् १५

संहिता

अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म् ।
पु॒रु॒क्षुं वि॒श्वधा॑यसम् ॥

पदपाठः

अ॒स्मे इति॑ । आ । व॒ह॒त॒म् । र॒यिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।
पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ॥

सायणभाष्यम्

हे अश्विनौ अस्मे अस्मभ्यं रयिं धनं आवहतम् आनयतम् कथंभूतं शतवन्तं शतसंख्योपेतं सहस्रिणं सहस्रसंख्योपेतंच पुरुक्षुम् बहुनिवासं यद्वा पुरुभिर्बहुभिः स्तुत्यं विश्वधायसं विश्वेषां सर्वेषामस्मदीयानां धारकं वहिहाधाञ्भ्यश्छन्दसीति दधातेरसुन् णिदित्यनुवृत्तेर्णि- द्वद्भावेनयुगागमः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः