मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २६

संहिता

यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य॑म् ।
यथा॒ वाजे॑षु॒ सोभ॑रिम् ॥

पदपाठः

यथा॑ । उ॒त । कृत्व्ये॑ । धने॑ । अं॒शुम् । गोषु॑ । अ॒गस्त्य॑म् ।
यथा॑ । वाजे॑षु । सोभ॑रिम् ॥

सायणभाष्यम्

उतापिच यथा येनप्रकारेण धने कृत्व्ये कर्तव्ये प्राप्तव्ये सति अंशुं एतत्संज्ञं स्तोतारं आवतं अरक्षतम् । गोषु च लब्धव्यासु यथा अगस्त्यमृषिं अरक्षतम् वाजेष्वन्नेषु लब्धव्येषु यथा येन प्रकारेण सोभरिं एतत्संज्ञमृषिंचारक्षतम् अत्रापि पूर्ववद्वाक्यशेषः उत्तरयैकवाक्यता वा ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः