मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २९

संहिता

हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ ।
उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥

पदपाठः

हि॒र॒ण्ययी॑म् । वा॒म् । रभिः॑ । ई॒षा । अक्षः॑ । हि॒र॒ण्ययः॑ ।
उ॒भा । च॒क्रा । हि॒र॒ण्यया॑ ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोः रभिः आरंभणीया आलभनभूता रथस्य ईषा हिरण्ययी हिरण्मयी हिरण्यविकारा अक्षश्च हिरण्ययः हिरण्मयः हिरण्यनिर्मितः ईषा अक्षादिषु छन्दसीति प्रकृतिभावः । अपिच उभा उभे द्वे अपि चक्रा चक्रे रथचरणे हिरण्यया हिरण्मये सुवर्ण- निर्मिते सुपांसुलुगिति द्विवचनस्याकारः ऋत्व्यवास्त्व्यवास्त्वेत्यादिना हिरण्यशब्दान्ममटोमलोपोनिपात्यते ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः