मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १०

संहिता

अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ ।
अ॒हं सूर्य॑ इवाजनि ॥

पदपाठः

अ॒हम् । इत् । हि । पि॒तुः । परि॑ । मे॒धाम् । ऋ॒तस्य॑ । ज॒ग्रभ॑ ।
अ॒हम् । सूर्यः॑ऽइव । अ॒ज॒नि॒ ॥

सायणभाष्यम्

पितुः पालकस्य ऋतस्य सत्यस्यावितथस्येंद्रस्य मेधामनुग्रहात्मिकां बुद्धिं अहमित् अहमेव परिजग्रभ परिगृहीतवानस्मि नान्यः । हिं यस्मादेवं तस्मादहं सूर्यइवाजनि सूर्योयथा प्रकाशमानः सन् प्रादुर्भवति तथा अजनिषं प्रादुरभूवम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०