अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् ।
येनेन्द्र॒ः शुष्म॒मिद्द॒धे ॥
अ॒हम् । प्र॒त्नेन॑ । मन्म॑ना । गिरः॑ । शु॒म्भा॒मि॒ । क॒ण्व॒ऽवत् ।
येन॑ । इन्द्रः॑ । शुष्म॑म् । इत् । द॒धे ॥
कण्ववत् मम जनकः कण्वइवाहं प्रत्नेन नित्येन वेदरूपेण मन्मना मननसाधनेनेन्द्रविषयस्तोत्रेण गिरोवाचः शुंभामि अलंकरोमि यदाहि इन्द्रविषये प्रयुज्यंते तदानीं यथार्थत्वात् वाचोऽलंकृताभवन्ति येन खलु स्तोत्रेण इन्द्रः शुष्मं शत्रूणां शोषकं बलं दधेइत् धत्तएव धारयत्येव यत्स्तोत्रमिन्द्रे ईदृशं बलमवश्यं जनयति तेन मन्मनेत्यर्थः ॥ ११ ॥