मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३३

संहिता

उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः ।
विप्रा॑ अतक्ष्म जी॒वसे॑ ॥

पदपाठः

उ॒त । ब्र॒ह्म॒ण्या । व॒यम् । तुभ्य॑म् । प्र॒ऽवृ॒द्ध॒ । व॒ज्रि॒ऽवः॒ ।
विप्राः॑ । अ॒त॒क्ष्म॒ । जी॒वसे॑ ॥

सायणभाष्यम्

उरापिच हे प्रवृद्ध स्तुतिभिः प्रकृष्टां वृद्धिं प्राप्त हे वज्रिवः वज्रवन्निन्द्र एकोमत्वर्थीयोनुवादः यद्वा वज्रोस्यास्तीति वज्रहस्तः तद्वन् छन्द- सीरइति मतुपोवत्वम् मतुवसोरुरिति नकारस्यरुत्वम् ईदृशेन्द्र तुभ्यं त्वदर्थं निप्रामेधाविनोवयं ब्रह्मण्या स्तोत्राणि हविर्लक्षणान्य- नान्निवा सुपांसुलुगिति सुपोयाजादेशः जीवसे जीवनार्थं अतक्ष्म अकार्ष्म तक्षू त्वक्षू तनूकरणे लङि छान्दसःशपोलुक् ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५