मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३४

संहिता

अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः ।
इन्द्रं॒ वन॑न्वती म॒तिः ॥

पदपाठः

अ॒भि । कण्वाः॑ । अ॒नू॒ष॒त॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।
इन्द्र॑म् । वन॑न्ऽवती । म॒तिः ॥

सायणभाष्यम्

कण्वाः कण्वगोत्राऋषयः अभ्यनूषत इन्द्रम् अभिष्टुवन्ति नू स्तुतौ कुटादिः प्रवता प्रवणेन मार्गेण यतीर्गच्छन्त्यः आपोन आपइव मतिः मननीया कण्वैः क्रियमाणा स्तुतिः स्तुत्यमिन्द्रं वनन्वती स्वयमेव सम्भजनवती भवति ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५