मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३५

संहिता

इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः ।
अनु॑त्तमन्युम॒जर॑म् ॥

पदपाठः

इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।
अनु॑त्तऽमन्युम् । अ॒जर॑म् ॥

सायणभाष्यम्

उक्थानि शस्त्राण्यस्माभिः शस्यमानानि इन्द्रं ववृधुर्वर्धयन्ति । सिन्धवः स्यन्दनशीलानद्यः समुद्रमिव समुद्रं जलधिं यथा वर्धयन्ति तद्वत् कीदृशमिन्द्रं अनुत्तमन्युम् अनुत्तः अप्रेरितः परैरभिभूतोमन्युः क्रोधोयस्य तादृशम् नुदविदोन्दत्रेत्यादिना विकल्पितत्वान्निष्ठानत्वाभावः । अजरं जरारहितं बहुव्रीहौ नञोजरमरमित्रमृताइत्युत्तरपदाद्युदात्तत्वम् ॥ ३५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५