अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् ।
अनु॑ सुवा॒नास॒ इन्द॑वः ॥
अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । च॒क्रम् । न । व॒र्ति॒ । एत॑शम् ।
अनु॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥
हे इन्द्र त्वा त्वां उभे रोदसी द्यावापृथिव्यौ अनुवर्तेते त्वदधीने भवतइत्यर्थः तत्रदृष्टान्तः-चक्रं न यथा रथचक्रं एतशं अश्वनामैतत् पुरोगच्छन्तमश्वं अनुवर्ति अनुवर्तते तद्वत् । अपिच सुवानासः ऋत्विग्भिरभिषूयमाणाइन्दवः सोमाश्च त्वामनुवर्तन्ते ॥ ३८ ॥