मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४२

संहिता

अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रयः॑ ।
श॒तं व॑हन्तु॒ हर॑यः ॥

पदपाठः

अ॒स्माक॑म् । त्वा॒ । सु॒तान् । उप॑ । वी॒तऽपृ॑ष्ठाः । अ॒भि । प्रयः॑ ।
श॒तम् । व॒ह॒न्तु॒ । हर॑यः ॥

सायणभाष्यम्

हे इन्द्र अस्माकमस्मदीयान् सुतान्सोमानुपलक्ष्य प्रयः अन्ननामैतत् धानाकरम्भादिहविर्लक्षणमन्नं चाभिलक्ष्य वीतपृष्ठाः प्रशस्तोपरि- भागाः शतं शतसंख्याकाहरयोश्वाः त्वा त्वां वहन्तु प्रापयन्तु ॥ ४२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७