मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८, ऋक् ११

संहिता

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।
व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥

पदपाठः

अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
व॒त्सः । वा॒म् । मधु॑ऽमत् । वचः॑ । अशं॑सीत् । का॒व्यः । क॒विः ॥

सायणभाष्यम्

हे अश्विना अश्विनौ येषु लोकेषु यत्र वर्तेथे अतोस्मात् स्थानात् सहस्रनिर्णिजा निर्णिगिति रूपनाम स्वर्णमयतया बहुविधरूपयुक्तेन रथेन आयातमागच्छतम् काव्यः कवेः पुत्रः कविर्मेधावी वत्सऋषिः वां युवाभ्यां युवयोरर्थं मधुमत् माधुर्योपेतं वचोवचनमुक्थं अशंसीत् शंसितवान् यतएवमतआगच्छतमित्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७