मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् ४

संहिता

अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।
अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥

पदपाठः

अ॒यम् । वा॒म् । घ॒र्मः । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ।
अ॒यम् । सोमः॑ । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथः ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोः संबन्धी अयं घर्मः प्रवर्ग्यं स्तोमेन स्तोत्रेण ऋक्सामरूपेण परिषिच्यते आर्द्रीक्रियते यथा युवयोस्तृप्तिकरोभवति तथा क्रियतइत्यर्थः यद्वा घर्मस्य हविषआधारभूतोमहावीरोघर्मः सः स्तोमेन स्तोतव्येन पयसा परिषिच्यते आसिच्यते वां युवयोरर्थम् । अपिच हे वाजिनीवसू अन्नवद्धनौ अयं सोमस्तार्तीयस्वनिकोमधुमान् माधुर्यवान् युवाभ्यां दीयते येन युवां वृत्रमावरकं शत्रुं चिकेतथः हन्तव्यतया जानीथः अयं घर्मः सोमश्चेत्युभयत्रान्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०