मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् ६

संहिता

यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑ ।
अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥

पदपाठः

यत् । ना॒स॒त्या॒ । भु॒र॒ण्यथः॑ । यत् । वा॒ । दे॒वा॒ । भि॒ष॒ज्यथः॑ ।
अ॒यम् । वा॒म् । व॒त्सः । म॒तिऽभिः॑ । न । वि॒न्ध॒ते॒ । ह॒विष्म॑न्तम् । हि । गच्छ॑थः ॥

सायणभाष्यम्

हे नासत्या सत्यस्वभावावश्विनौ यत् यौ युवां भुरण्यथः सर्वं जगन्पोषयथः । भुरणधारणपोषणयोः कंड्वादिः हे देवा दानादिगुणयुक्तौ अश्विनौ छान्दसः सांहितिकोह्रस्वः यद्वा यौ च युवां भिषज्यथः सर्वस्य प्राणिजातस्य भैषज्यं रोगोपशमनं कुरुथः भिषज चिकित्सायाम् अयमपि कंड्वादिः तौ वां युवां अयं वत्सः स्तोता मतिभिर्मननीयैः केवलैः स्तोत्रैर्न विंधते नविन्दते नलंभते वर्णविकारश्छान्दसः । कुतइतिचेदुच्यते हविष्मन्तं हविर्युक्तं स्तोतारं हि युवां गच्छथः तस्माद्युवां हविर्भिर्युक्तैः स्तोत्रैः प्रसीदथ इतिभावः ॥ ६ ॥ प्रवर्ग्येमहावीरे गोपयस्यासिच्यमाने आनूनमित्येषानुवक्तव्या सूत्र्यतेहि-आनूनमशिनोरृषिरितिगव्य आसुतेसिञ्चतश्रियमित्याज्यइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१