मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् ७

संहिता

आ नू॒नम॒श्विनो॒रृषि॒ः स्तोमं॑ चिकेत वा॒मया॑ ।
आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥

पदपाठः

आ । नू॒नम् । अ॒श्विनोः॑ । ऋषिः॑ । स्तोम॑म् । चि॒के॒त॒ । वा॒मया॑ ।
आ । सोम॑म् । मधु॑मत्ऽतमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ॑र्वणि ॥

सायणभाष्यम्

हे अश्विनौ यदा युवामागच्छेयाथां यथा तदानीं युवयोरश्विनोः स्तोमं स्तोत्रं ऋषिर्मन्त्रद्रष्टा वामया वननीयया उत्कृष्टया बुद्भ्या नूनमव- श्यं आचिकेत अभिजानीयात् कितज्ञाने छान्दसोलिट् । तथा मधुमत्तमं अतिशयेन मधुरं सोमं घर्मं प्रवर्ग्यसंबन्धिघर्माख्यं हविश्च अथर्वणि अहिंसकग्नौ यद्वा अथर्वाऋषिः तेननिर्मथितो ग्निरुपचारादथर्वेत्युच्यते अथर्वणानिर्मथनञ्च-त्वामग्नेपुष्करादधीत्यादिनिगमान्त- रेवगम्यते । तस्मिन्नग्नौ आसिञ्चात् आसिञ्चेत् प्रक्षिपेत् अतः शीघ्रमागच्छतमित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१