मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् ९

संहिता

यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।
यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥

पदपाठः

यत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थैः । आ॒ऽचु॒च्यु॒वी॒महि॑ ।
यत् । वा॒ । वाणी॑भिः । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥

सायणभाष्यम्

हे नासत्यौ अद्येदानीं उक्थैः शस्त्रैः यद्यथा येन प्रकारेण वां आचुच्युवीमहि आगमयेम । हे अश्विनौ यद्वा यथा वाणीभिः उक्थव्यतिरि- क्ताभिरपि वाग्भिः स्तुतिभिः युवामागमयेम एवेत् एवमेव तथैव काण्वस्य मम तदुक्थादिकं बोधतमवगच्छतम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१