मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०, ऋक् ५

संहिता

यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू ।
यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम् ॥

पदपाठः

यत् । अ॒द्य । अ॒श्वि॒नौ॒ । अपा॑क् । यत् । प्राक् । स्थः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
यत् । द्रु॒ह्यवि॑ । अन॑वि । तु॒र्वशे॑ । यदौ॑ । हु॒वे । वा॒म् । अथ॑ । मा॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ अद्येदानीं यद्यदि अपाक् प्रतीच्यां दिशि स्थोभवथोवर्तेथे हे वाजिनीवसू अन्नवद्धनौ यद्यदि पाक् प्राच्यां दिशि स्थोभवथः यत् यदिवा द्रुह्यवि अनवि तुर्वशे यदौ द्रुह्युप्रभृतिषु चतुर्षु स्तोतृषु संनिहितौ भवथः एवं सर्वत्र संनिहितौ वां युवां हुवे अहमाह्वयामि अथानन्तरमेव मा मां आगतम् आगच्छतम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४