मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् ४

संहिता

यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः ।
ह॒र्षु॒मन्त॒ः शूर॑सातौ ॥

पदपाठः

यस्य॑ । अनू॑नाः । ग॒भी॒राः । मदाः॑ । उ॒रवः॑ । तरु॑त्राः ।
ह॒र्षु॒ऽमन्तः॑ । शूर॑ऽसातौ ॥

सायणभाष्यम्

यस्येन्द्रस्य मदाः सोमपानजनिताः अनूनाः अन्यूनाः गभीराः गांभीर्योपेताः उरवोविस्तीर्णाः तरुत्राः शत्रूणां तारकाः शूरसातौ शूरसंभजनीये संग्रामे हर्षुमन्तोहर्षयुक्ताः संग्रामोत्सुकाभवन्ति तमिन्द्रमिति पूर्वयोत्तरया वा संबंधः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०