मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् ८

संहिता

स स्तोम्य॒ः स हव्य॑ः स॒त्यः सत्वा॑ तुविकू॒र्मिः ।
एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥

पदपाठः

सः । स्तोम्यः॑ । सः । हव्यः॑ । स॒त्यः । सत्वा॑ । तु॒वि॒ऽकू॒र्मिः ।
एकः॑ । चि॒त् । सन् । अ॒भिऽभू॑तिः ॥

सायणभाष्यम्

सपूर्वोक्तैइन्द्रः स्तोम्यः स्तोमार्हः स्तुत्यर्हः सएव हव्योह्वातव्यश्च सत्यः सत्सुसाधुः अवितथस्वभावोसत्वा शत्रूणामवसादयिता तुविकूर्मिः बहुकर्मा यतएवातः कारणात् एकश्चित्सन् असहायोपिभवन् अभिभूतिः शत्रूणामभिभविता तिरस्कर्ता भवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१