मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् ७

संहिता

अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः ।
प्र सोम॑ इन्द्र सर्पतु ॥

पदपाठः

अ॒यम् । ऊं॒ इति॑ । त्वा॒ । वि॒ऽच॒र्ष॒णे॒ । जनीः॑ऽइव । अ॒भि । सम्ऽवृ॑तः ।
प्र । सोमः॑ । इ॒न्द्र॒ । स॒र्प॒तु॒ ॥

सायणभाष्यम्

हे विचर्षणे विद्रष्टरिन्द्र जनीरिव जनयोजायाइव तायथा शुक्लैर्वस्त्रैः संवृताभवन्ति एवं संवृतः पयःप्रभृतिभिः श्रयणद्रव्यैरावृतोयं सोमः अभिप्रसर्पतु अभिगच्छतु उइतिपूरकः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३