मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् ११

संहिता

अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ ।
एही॑म॒स्य द्रवा॒ पिब॑ ॥

पदपाठः

अ॒यम् । ते॒ । इ॒न्द्र॒ । सोमः॑ । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ ।
आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव॑ । पिब॑ ॥

सायणभाष्यम्

हे इन्द्र ते तुभ्यं त्वदर्थं अयं सोमोबर्हिष्यधि वेद्यामास्तीर्णे दर्भे निपूतः नितरांदशापवित्रेण शोधितः अभिषवादिसंस्कारैः संस्कृतइत्यर्थः । र्इं इदानीं अस्य इमं सोमं प्रति एहि आगच्छ आगत्य यत्र रसात्मकः सोमोहूयते तं देशं प्रति द्रव शीघ्रंगच्छ तदनंतरं तं सोमं पिब ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४