मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ६

संहिता

तस्येदर्व॑न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ ।
न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥

पदपाठः

तस्य॑ । इत् । अर्व॑न्तः । रं॒ह॒य॒न्ते॒ । आ॒शवः॑ । तस्य॑ । द्यु॒म्निऽत॑मम् । यशः॑ ।
न । तम् । अंहः॑ । दे॒वऽकृ॑तम् । कुतः॑ । च॒न । न । मर्त्य॑ऽकृतम् । न॒श॒त् ॥

सायणभाष्यम्

यः पूर्वोक्तः तस्येत् तस्यैव आशवोव्यापनशीलाः अर्वन्तःअश्वाः रंहयंते वेगंकुर्वन्ति शत्रूनूप्रसहन्तइत्यर्थः । द्युम्नितमं दीप्तिमत्तमं यशः कीर्तिश्च तस्यैवभवति यद्वा द्युम्नमिति धननाम धनवत्तमं यशोन्नंच तस्यभवति । अपिच देवकृतं देवैःकृतं अंहः पापं कुतश्चन कस्माकपि हेतोः तं न नशत् न प्राप्नोति न मर्त्यकृतं मनुष्यैः कृतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०