मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ८

संहिता

प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्य॑ः ।
त्वे क्षेमा॑सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा॑ रयी॒णाम् ॥

पदपाठः

प्र॒ऽशंस॑मानः । अति॑थिः । न । मि॒त्रियः॑ । अ॒ग्निः । रथः॑ । न । वेद्यः॑ ।
त्वे इति॑ । क्षेमा॑सः । अपि॑ । स॒न्ति॒ । सा॒धवः॑ । त्वम् । राजा॑ । र॒यी॒णाम् ॥

सायणभाष्यम्

प्रशंसमानः स्तुवन् अतिथिर्न अतिथिरिव यद्वा व्यत्ययेन कर्मणि कर्तृप्रत्ययः प्रशस्यमानः सोग्निर्मित्रियः मित्राणां स्तोतृणां हितोभवति । तथा रथोन रथइव वेद्योलंभनीयः अभीष्टफलसाधनत्वेन ज्ञातव्योवा । उत्तरोर्धर्चः प्रत्यक्षकृतः । हे अग्ने त्वे त्वयि साधवः साधकाः समीचीनाः क्षेमासो- धारणान्यपि सन्ति भवन्ति । तथा त्वं रयीणां धनानामेव राजा ईश्वरोभवसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०