मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३६

संहिता

अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म् ।
मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥

पदपाठः

अदा॑त् । मे॒ । पौ॒रु॒ऽकु॒त्स्यः । प॒ञ्चा॒शत॑म् । त्र॒सद॑स्युः । व॒धूना॑म् ।
मंहि॑ष्ठः । अ॒र्यः । सत्ऽप॑तिः ॥

सायणभाष्यम्

इदमादिकेन प्रगाथेन त्रसदस्योर्दानमृषिः प्रशंसति । पौरुकुत्स्यः पुरुकुत्सपुत्रस्त्रसदस्युः मे मःह्चं वधूनां पञ्चाशतं अदात् दत्तवान् । कीदृशः मंहिष्ठो- दातृतमः अर्यः अभिगंतव्यः स्वामीवा सत्पतिः सतां श्रेष्ठानां स्तोतृणां पालयिता ॥ ३६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५