मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् ५

संहिता

अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पति॑ः ।
भूमि॒र्यामे॑षु रेजते ॥

पदपाठः

अच्यु॑ता । चि॒त् । वः॒ । अज्म॑न् । आ । नान॑दति । पर्व॑तासः । वन॒स्पतिः॑ ।
भूमिः॑ । यामे॑षु । रे॒ज॒ते॒ ॥

सायणभाष्यम्

हे मरुतोवोयुष्माकं अज्मन् अज्मनि संग्रामे गमनेसति अच्युताचित् च्यावयितुमशक्याअपि पर्वतासः पर्वतामेघा गिरयोवा वनस्पतिः जातावेक- वचनं वनस्पतयोवृक्षाश्च आनानदति अभितोभृशं शब्दायंते । अपिच यामेषु युष्मदीयेषु गमनेषु निमित्तेषु भूमिः पृथिवीच रेजते कंपते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६