मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् १३

संहिता

अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि ।
यु॒धेदा॑पि॒त्वमि॑च्छसे ॥

पदपाठः

अ॒भ्रा॒तृ॒व्यः । अ॒ना । त्वम् । अना॑पिः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ।
यु॒धा । इत् । आ॒पि॒ऽत्वम् । इ॒च्छ॒से॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं जनुषा जन्मनैव अभ्रातृव्यः । व्यन्त्सपत्नइति व्यन्प्रत्ययः । सपत्नरहितैः अना अनेतृकः ऋतश्छन्दसीतिकपः प्रतिषेधः अनियन्तृकइत्यर्थः अनापिः बन्धुवर्जितश्च सनादसि चिरादेव भ्रातृव्यादिवर्जितोसि यञ्व त्वं आपित्वं बान्धवमिच्छसे इच्छसि तत्र युधेत् युद्धेनैव युद्धं कुर्वन्नेव स्तोतृ- णां सखाभवसीति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः