मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् १

संहिता

ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ ।
यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथु॑ः ॥

पदपाठः

ओ इति॑ । त्यम् । अ॒ह्वे॒ । आ । रथ॑म् । अ॒द्य । दंसि॑ष्ठम् । ऊ॒तये॑ ।
यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । आ । सू॒र्यायै॑ । त॒स्थथुः॑ ॥

सायणभाष्यम्

हे अश्विनौ दंसिष्ठमत्यंतदर्शनीयं यद्वा अतिशयेन शत्रूणामुपक्षपयितारं त्यं तं युवयोरथं ऊतये रक्षणाय अद्यास्मिन्यागदिने अह्वे सोभरिरहमाह्व- यामि सुहवा सुहवौ स्तोत्रशस्त्रादिभिः शोभनाह्वानौ रुद्रवर्तनी संग्रामे रोदनशीलमार्गौ यद्वा स्तूयमानमार्गौ हे अश्विनौ सूर्यायै सूर्यां स्वयंवरे वर- यितुं यं रथं युवां आतस्थथुः आश्रयथः तं रथमाह्वयामीति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः