मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् ६

संहिता

द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः ।
ता वा॑म॒द्य सु॑म॒तिभि॑ः शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥

पदपाठः

द॒श॒स्यन्ता॑ । मन॑वे । पू॒र्व्यम् । दि॒वि । यव॑म् । वृके॑ण । क॒र्ष॒थः॒ ।
ता । वा॒म् । अ॒द्य । सु॒म॒तिऽभिः॑ । शु॒भः॒ । प॒ती॒ इति॑ । अश्वि॑ना । प्र । स्तु॒वी॒म॒हि॒ ॥

सायणभाष्यम्

हे अश्विनौपूर्व्यं पुरातनं दिवि द्युलोके स्थितमुदकं मनवे एतन्नामकायराज्ञे दशस्यन्तादशस्यन्तौ प्रयच्छन्तौ युवां वृकेण लांगलेन । वृकोलांगलंभव- ति विकर्तनादितियास्कः । तेन लांगलंन यवं यवनामकंधान्यं कर्षथः पुनश्च तस्मै विलेखनं कुरुथः । शुभस्पती उदकस्य पालयितारौ हे अश्विना अश्विनौ ता पूर्वोक्तलक्षणयुक्तौ वां युवां अद्यास्मिन्यज्ञदिने सुमतिभिः शोभनाभिः स्तुतिभिः प्रकर्षेण स्तुवीमहि वयं स्तुमः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः