मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २२, ऋक् ८

संहिता

अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू ।
आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥

पदपाठः

अ॒यम् । वा॒म् । अद्रि॑ऽभिः । सु॒तः । सोमः॑ । न॒रा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
आ । या॒त॒म् । सोम॑ऽपीतये । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥

सायणभाष्यम्

नरा सर्वस्यनेतारौ यद्वा स्तोतृणां धनस्य नेतारौ वृषण्वसू वर्षणशीलधनवन्तौ हे अश्विनौ वां युष्मदर्थं अद्रिभिर्ग्रावभिरयं सोमः सुतोभिषुतःतस्मा- त् सोमपीतये सोमपानार्थं युवामायातं आगत्यच दाशुषोहविर्दत्तवतोयजमानस्य गृहे यज्ञस्थाने सोमं युवां पिबतम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः