मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् २१

संहिता

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।
अवां॒स्या वृ॑णीमहे ॥

पदपाठः

तव॑ । वा॒यो॒ इति॑ । ऋ॒तः॒ऽप॒ते॒ । त्वष्टुः॑ । जा॒मा॒तः॒ । अ॒द्भु॒त॒ ।
अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे ऋतःपते ऋतपते यज्ञानांपते सर्वप्रातिपदिकेभ्योलालसायां सुगिति सुगागमः त्वष्टुर्जामातः ब्रह्मणोजामातः । एषा कथा इतिहासादिभिरवगन्त- व्या । तादृश अद्भुत महन् विचित्रकर्मन् हे वायो तव त्वदीयानि अवांसि पालनानि आवृणीमहे वयमस्मिन्पशुयागे संभजामहे ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०