मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् २५

संहिता

स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः ।
कृ॒धि वाजाँ॑ अ॒पो धियः॑ ॥

पदपाठः

सः । त्वम् । नः॒ । दे॒व॒ । मन॑सा । वायो॒ इति॑ । म॒न्दा॒नः । अ॒ग्रि॒यः ।
कृ॒धि । वाजा॑न् । अ॒पः । धियः॑ ॥

सायणभाष्यम्

हे देव द्योतमान यद्वा स्तोतव्यवायो अग्रियः देवानां मध्ये मुख्यः अग्रतोगन्तासि सतादृशस्त्वं मनसा मन्दानोमन्दमानः स्वयमेव मोदमानःसन् नो- स्माकं वाजान् अन्नानि अपोमेघभेदनेनोदकानिच उभयस्मिन् त्वया प्रदत्तेसति धियः अग्निहोत्रादिकर्माणिच कृधि कुरु कारयेत्यर्थः ॥ २५ ॥

अग्निरुक्थइति द्वाविंशर्चं सप्तमं सूक्तम् । अत्रानुक्रमणिका-अग्निरुक्थेद्मधिका मनुर्वैवस्वतो वैश्वदेवंह प्रगाथमिति । वुवस्वतःपुत्रोमनुरृषिः प्रथमातृ- तीयाद्ययुजोबृहत्यः द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः । इदमादीनां चतुर्णां सूक्तानां विश्वेदेवादेवता सूक्तविनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०