मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् १०

संहिता

अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥

पदपाठः

अर्च॑न्तः । एके॑ । महि॑ । साम॑ । म॒न्व॒त॒ । तेन॑ । सूर्य॑म् । अ॒रो॒च॒य॒न् ॥

सायणभाष्यम्

अर्चन्तः देवान्पूजयन्तः एके केचनात्रयः महि महत् साम मन्वत उच्चारयन्तीत्यर्थः । तादृशा अत्रयः तेनोक्तेन साम्ना सूर्यं अरोचयन्नदीपयन् तएवांत्र देवता ॥ १० ॥

नहिवइति चतुरृचं दशमं सुक्तं आद्यागायत्री द्वितीयापुरउष्णिक् तृतीयाबृहती चतुर्थ्यनुष्टुप् मनुर्वैवस्वतऋषिः पूर्ववद्विश्वेदेवादेवता । तथाचानु- क्रान्तम्-नहिवश्चतुष्कंपुरउष्णिग् बृहत्यनुष्टुबन्तमिति । विनियोगस्तु लिंगादवगन्तव्यः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६