मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १३

संहिता

यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
तमिन्द्र॑म॒भि गा॑यत ॥

पदपाठः

यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।
तम् । इन्द्र॑म् । अ॒भि । गा॒य॒त॒ ॥

सायणभाष्यम्

यइन्द्रो रायो धनस्यावनिः पालकोमहान् सर्वोत्तमः सुपारः शोभनपारणश्च भवति यश्च सुन्वतः सोमाभिषवंकुर्वतो यजमानस्य सखा प्रियोभवति तमिन्द्रमभिगायताभिष्टुवत । हेस्तोतारइतिशेषः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः