मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् २०

संहिता

पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ ।
उ॒तायमि॑न्द्र॒ यस्तव॑ ॥

पदपाठः

पिब॑ । स्वऽधै॑नवानाम् । उ॒त । यः । तुग्र्ये॑ । सचा॑ ।
उ॒त । अ॒यम् । इ॒न्द्र॒ । यः । तव॑ ॥

सायणभाष्यम्

हे इन्द्र स्वधैनवानां स्वधैनवान् स्वभूतपयसोधेनोः संबन्धिनः सोमान् धेन्वा क्रीतानित्यर्थः । तथाचश्रूयते-धेन्वाक्रीणातीति । उतापिच यः सोमस्तु- ष्ये उदके बुसं तुग्र्येत्युदकनामसुपाठात् । सचा संसृष्ट स्तमपि सोमं पिब । उतापिच यः सोमः तवत्वदीयस्त्वामुद्दिश्य गृहीतः सोयं त्वया पातव्यइ- तिशेषः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः