मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् २१

संहिता

अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे ।
इ॒मं रा॒तं सु॒तं पि॑ब ॥

पदपाठः

अति॑ । इ॒हि॒ । म॒न्यु॒ऽसा॒विन॑म् । सु॒सु॒ऽवांस॑म् । उ॒प॒ऽअर॑णे ।
इ॒मम् । रा॒तम् । सु॒तम् । पि॒ब॒ ॥

सायणभाष्यम्

हे इन्द्र मन्युषाविणं क्रोधेन सोमं सुन्वन्तमतीह्यतिगच्छ तथोपारणे ब्राह्मणा उपेत्य यस्मिन्देशे न रमन्ते सउपारणस्तस्मिन् देशे सुषुवांसं सुन्वन्त- मतीहि इमं रातं ब्राह्मणोपद्रवरहितेदेशेस्माभिर्दत्तमिमं सुतं सोमं पिब ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः