मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् २४

संहिता

अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ ।
भरा॑ सु॒तस्य॑ पी॒तये॑ ॥

पदपाठः

अध्व॑र्यो॒ इति॑ । आ । तु । हि । सि॒ञ्च । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ ।
भर॑ । सु॒तस्य॑ । पी॒तये॑ ॥

सायणभाष्यम्

हे अध्वर्यो शिप्रिणे हनूमते वीराय शूरायेन्द्राय सोमं तु हि क्षिप्रमेवासिंच । सुतस्य सुतं सोमं पीतये पानायच भराहरच ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः