मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् ७

संहिता

क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे ।
अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥

पदपाठः

कः । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वयः॑ । द॒धे॒ ।
अ॒यम् । यः । पुरः॑ । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒नः । शि॒प्री । अन्ध॑सः ॥

सायणभाष्यम्

सुतेभिषुतेसोमे सचा ऋत्विजासह सोमं पिबन्तमीमेनमिन्द्रं कोवेद वेत्ति नकोपिवेत्तीत्यर्थः कत् किंवा वयोन्नं दधे धारयति योयमिन्द्रः शिप्री हनु- मानन्धसः सोमेन मन्दानोमन्दमानः ओजसा बलेन पुरोविभिनत्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः