स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।
वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥
स॒त्यम् । इ॒त्था । वृषा॑ । इत् । अ॒सि॒ । वृष॑ऽजूतिः । नः॒ । अवृ॑तः ।
वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒ऽवति॑ । वृषो॒ इति॑ । अ॒र्वा॒ऽवति॑ । श्रु॒तः ॥
हे उग्र उद्रूर्णेन्द्र त्वं सत्यमित्था इत्थं वृषेत् कामानां वर्षकएवासि वृषजूतिः वृषभिश्चाकृष्टो नोस्माकमवृतः शत्रुभिरपरिवृतश्चासि वृषा हि सेचकएव श्रृण्विषे श्रूयसे । परावति दूरेपि वृषोवृषैव अर्वावति समीपेपि वृषा सेचकएव श्रुतोवृषैवाश्रूयथाः ॥ १० ॥