मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् ११

संहिता

वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ ।
वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥

पदपाठः

वृष॑णः । ते॒ । अ॒भीश॑वः । वृषा॑ । कशा॑ । हि॒र॒ण्ययी॑ ।
वृषा॑ । रथः॑ । म॒घ॒ऽव॒न् । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥

सायणभाष्यम्

हे मघवन् ते तव अभीशवोरश्मयोऽश्वरशनाः वृषणः वर्षितारः हिरण्ययी हिरण्मयी कशापि वृषा रथोपि वृषा वर्षिता हरी अश्वावपि वृषणा वृष- णौ वर्षितारौ हे शतक्रतो बहुप्रज्ञेन्द्र त्वंच वृषा वर्षिता ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः