मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् १३

संहिता

एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् ।
नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतु॑ः ॥

पदपाठः

आ । इ॒न्द्र॒ । या॒हि॒ । पी॒तये॑ । मधु॑ । श॒वि॒ष्ठ॒ । सो॒म्यम् ।
न । अ॒यम् । अच्छ॑ । म॒घऽवा॑ । शृ॒णव॑त् । गिरः॑ । ब्रह्म॑ । उ॒क्था । च॒ । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

हे शविष्ठ बलवत्तमेन्द्र सोम्यं सोमात्मकं मध्वमृतं पीतये पानायायाहि आगच्छ । किमर्थमागमनमित्यतआह यतआगमनमन्तरेण मघवा धन- वान्सुक्रतुः सुकर्मा शोभनप्रज्ञोवायमिन्द्रोगिरः स्तुतीः ब्रह्म स्तोत्राण्युक्थानिच नाच्छ शृणवत् नाभिशृणोति अतआगमनमित्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः