मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् १६

संहिता

न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति ।
यो अ॒स्मान्वी॒र आन॑यत् ॥

पदपाठः

न॒हि । सः । तव॑ । नः॒ । मम॑ । शा॒स्त्रे । अ॒न्यस्य॑ । रण्य॑ति ।
यः । अ॒स्मान् । वी॒रः । आ । अन॑यत् ॥

सायणभाष्यम्

योवीरः शूरोनोस्माननयत् सइन्द्रस्तव शास्त्रे शासने नहि रण्यति न रमते ममापि शास्त्रे नोरण्यति अन्यस्यापि शासने न रण्यति किंतु रक्षणएव रमतइत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०