मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् ३

संहिता

अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृकः॑ ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

अत्र॑ । वि । ने॒मिः । ए॒षा॒म् । उरा॑म् । न । धू॒नु॒ते॒ । वृकः॑ ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

अत्रास्मिन्यज्ञे एषामभिषवग्राव्णां नेमिः सोमलता विधूनुते विशेषेण कम्पयति उरांमेषीं वृकोन वृकइव । सिद्धमन्यत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११