मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् १७

संहिता

य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यदः॑ ।
भ्राज॑न्ते॒ सूर्या॑ इव ॥

पदपाठः

ये । ऋ॒ज्राः । वात॑ऽरंहसः । अ॒रु॒षासः॑ । र॒घु॒ऽस्यदः॑ ।
भ्राज॑न्ते । सूर्याः॑ऽइव ॥

सायणभाष्यम्

तदा यऋज्रा ऋजुगामिनो वातरंहसो वायुसदृशवेगा अरूषासः आरोचमाना रघुष्यदो लघुस्यन्दमानाअश्वाःसूर्याइव-यथा सूर्यस्तथा भ्रजन्ते ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३