मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १४

संहिता

अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

पदपाठः

अङ्गि॑रस्वन्तौ । उ॒त । विष्णु॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

उतापिच हे अश्विनौ युवां अङ्गिरोभिर्युक्तौ विष्णुवन्ता विष्णुनाच सहितौ मरुत्वन्ता मरुद्धिश्चसहितौ मे जरितुःस्तोतुराह्वानं गच्छतम् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६