मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १७

संहिता

क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥

पदपाठः

क्ष॒त्रम् । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । नॄन् । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ युवां क्षत्रं क्षत्रियं जिन्वतं उतापिच नॄन् योद्धॄन जिन्वतम् । सिद्धमन्यत् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६