मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १९

संहिता

अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥

पदपाठः

अत्रेः॑ऽइव । शृ॒णु॒त॒म् । पू॒र्व्यऽस्तु॑तिम् । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । अश्वि॑ना । ति॒रःऽअ॑ह्न्यम् ॥

सायणभाष्यम्

हे अश्विनौ मदच्युता शत्रूणां मदस्य च्यावयितारौ युवां सुन्वतः सोमाभिषवंकुर्वतः श्यावाश्वस्य ममपितामहस्यात्रेरिव पूर्व्यस्तुतिं मुख्यांस्तुतिं श्रृणुतं उषसा सूर्येणच संगतौ तिरो अह्व्यं सोमं पिबतं तिरोहिते पूर्वस्मिन्नहन्यपरेद्युः प्रातरश्विनोर्यागइति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७