मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३७, ऋक् १

संहिता

प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

पदपाठः

प्र । इ॒दम् । ब्रह्म॑ । वृ॒त्र॒ऽतूर्ये॑षु । आ॒वि॒थ॒ । प्र । सु॒न्व॒तः । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

सायणभाष्यम्

हे शचीपते इन्द्र त्वं वृत्रतूर्येषु संग्रामेषु इदं ब्रह्म इमान् ब्राह्मणान् विश्वाभिः सर्वाभिःऊतिभीरक्षाभिः प्राविथ प्ररक्ष । सुन्वतः सोमाभिषवः कुर्वतो यजमानांश्च प्राविथ । अपिच हे अनेद्यानिन्द्य वज्रिवो वज्रिन् वृत्रहन्निन्द्र माध्यन्दिनस्य सवनस्य संबन्धिनं सोमस्य सोमं पिब ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९