मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् १

संहिता

अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ ।
अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

अ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय॑म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै॑ ।
अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति॑ । हि । वि॒दथे॒ इति॑ । क॒विः । अ॒न्तरिति॑ । चर॑ति । दू॒त्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

ऋग्मियं ऋगर्हं अग्निमस्तौषि स्तौमि । अपिचाग्निं यणध्यौ यष्टुमीळा स्तुत्या स्तौमीत्यर्थः अपिचाग्निर्नोस्माकं विदथे यज्ञे देवान् हविर्भिरनक्तु । कविः क्रान्तदर्श्यग्निः उभे द्यावापृथिव्यावन्तर्मध्ये दूत्यं हविर्वहनादिलक्षणं दूतकर्म चरति । अन्यके शत्रवोपि समे सर्वे नभन्तां नभतिर्हिंसाकर्मा अग्निना हिंस्यन्ताम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२